|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.58. अध्यायः 058
Mahabharata - Ashvamedhika Parva - Chapter Topics
उदङ्केनाभिज्ञाननिवेदनेनि मदयन्तीतः कुण्डलग्रहणपूर्वकं प्रतिनिवर्तनम्॥ 1 ॥ मध्येमार्गं क्षुधाविष्टेन तेन बिल्वतरुमारुह्य शाखायां कुण्डलासञ्जनपूर्वकं फलपातनाय शाखाचालनम्॥ 2 ॥ तत्र पतत्फलघट्टनेन कुण्डलयोरधःपतने केनचिदुरगवरेण तदपहृत्य नागलोकगमनम्॥ 3 ॥ तत इन्द्रसाहाय्याद्भूविदारणेन नागलोकंगतेनोदङ्केन तत्राश्ववचसा तदपानदेशधमने तन्निर्गतधूमपटलनिरुद्धैः सर्पैरुदङ्काय कुण्डलप्रत्यर्पणम्॥ 4 ॥ तत उदङ्केन गुरुपत्न्यै कुण्डलप्रदानम्॥ 5 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
स मित्रसहमासाद्य अभिज्ञानमयाचत।
तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा॥ 14-58-1(94072)
सौदास उवाच। 14-58-2x(7898)
न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः।
एतन्मे तत्वमाज्ञाय प्रयच्छ मणिकुण्डले॥ 14-58-2(94073)
इत्युक्तस्तामुदङ्कस्तु भर्तुर्वाक्यमथाब्रवीत्।
श्रुत्वा च सा तदा प्रादात्ततस्ते मणिकुण्डले॥ 14-58-3(94074)
अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत्।
किमेतद्गुह्यवचनं श्रोतुमिच्छामि पार्थिव॥ 14-58-4(94075)
सौदास उवाच। 14-58-5x(7899)
प्रजाविसर्गाद्विप्रान्वै क्षत्रियाः पूजयन्ति ह।
विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति नः॥ 14-58-5(94076)
सोहं द्विजेभ्यः प्रणतो विप्राद्दोषमवाप्तवान्।
गतिमन्यां न पश्यामि मदयन्तीसहायवान्॥ 14-58-6(94077)
न चान्यामपि पश्यामि गतिं गतिमतांवर।
स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम॥ 14-58-7(94078)
न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः।
शक्यं हि लोके स्थातुं वै प्रेत्य वा सुखमेधितुम्॥ 14-58-8(94079)
तदिष्टे ते मया दत्ते एते स्वे मणिकुण्डले।
यः कृतस्तेऽद्य समयः सफलं तं कुरुष्य मे॥ 14-58-9(94080)
उदङ्क उवाच। 14-58-10x(7900)
राजंस्तथेह कर्तास्मि पुनरेष्यामि ते वशम्।
प्रश्नं च कञ्चित्प्रष्टुं त्वां व्यवसिष्ये परंतप॥ 14-58-10(94081)
सौदास उवाच। 14-58-11x(7901)
ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः।
छेत्तास्मि संशयं तेऽद्य न मेऽत्राश्ति विचारणा॥ 14-58-11(94082)
उदङ्क उवाच। 14-58-12x(7902)
प्राहुर्वाक्संयतं विप्रं धर्मनैपुणदर्शिनः।
मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः॥ 14-58-12(94083)
स बवान्मित्रतामद्य सम्प्राप्तो मम पार्थिव।
स मे बुद्धिं प्रयच्छस्व सम्मतां पुरुषर्षभ॥ 14-58-13(94084)
अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः।
भवत्सकाशमागन्तुं क्षमं मम न वेति वै॥ 14-58-14(94085)
सौदास उवाच। 14-58-15x(7903)
क्षमं चेदिह वक्तव्यं मया द्विजवरोत्तम।
मत्समीपं द्विजश्रेष्ट नागन्तव्यं कथञ्चन॥ 14-58-15(94086)
एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह।
आगच्छतो हि ते विप्रि भवेन्मृर्त्युन संशयः॥ 14-58-16(94087)
वैशम्पायन उवाच। 14-58-17x(7904)
इत्युक्तः स तदा राजा क्षमं बुद्धिमता हितम्।
अनुज्ञाप्य स राजानमहल्यां प्रति जग्मिवान्॥ 14-58-17(94088)
गृहीत्वा कुण्डले दिव्ये गुरुपत्न्याः प्रियंकरः।
जवेन महता प्रायाद्गौतमस्याश्रमं प्रति॥ 14-58-18(94089)
यथा तयो रक्षणं च मदयन्त्याऽभिभाषितम्।
तथा ते कुण्डले बध्वा तदा कृष्णाजिनेऽनयत्॥ 14-58-19(94090)
स कस्मिंश्चित्क्षुधाविष्टः फलभारसमन्वितम्।
बिल्वं ददर्श विप्रर्षिरारुरोह च तं ततः॥ 14-58-20(94091)
शाखास्वासज्य तस्यैव कृष्णाजिनमरिंदम।
पातयामास बिल्वानि तदा स द्विजपुङ्गवः॥ 14-58-21(94092)
अथ पातयमानस्य बिल्वापहृतचक्षुषः।
न्यपतंस्तानि बिल्वानि तस्मिन्नेवाजिने विभो॥ 14-58-22(94093)
यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै।
बिल्वप्रहारैस्तस्याथ व्यशीर्यद्बन्धनं ततः॥ 14-58-23(94094)
सकुण्डलं तदजिनं पपात सहसा तरोः।
विशीर्णबन्धने तस्मिन्गते कृष्णाजिने महीम्॥ 14-58-24(94095)
अपश्यद्भुजगः कश्चित्ते तत्र मणिकुण्डले।
ऐरावतकुलोद्भूतः शीघ्रो भूत्वा तदा हि सः॥ 14-58-25(94096)
विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले।
ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन ह॥ 14-58-26(94097)
पपात वृक्षात्सोद्वेगो दुःखात्परमकोपनः।
स दण्डकाष्ठमादाय वल्मीकमखनत्तदा॥ 14-58-27(94098)
[अहानि त्रिंशदव्यग्रः पञ्च चान्यानि भारत।]
क्रोधामर्षाभिसंतप्तस्तदा ब्राह्मणिसत्तमः॥ 14-58-28(94099)
तस्य वेगमसह्यं तमसहन्ती वसुन्धरा।
दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमाकुला।
ततः खनत एवाथ विप्रर्षेर्धरणीतलम्
नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात्॥ 14-58-29(94100)
रथेन हरियुक्तेन तं देशमुपजग्मिवान्।
वज्रपाणिर्महातेजास्तं ददर्श द्विजोत्तमम्॥ 14-58-30(94101)
वैशम्पायन उवाच। 14-58-31x(7905)
स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः।
उदङ्कमब्रवीद्वाक्यं नैतच्छक्यं त्वयेति वै॥ 14-58-31(94102)
इतो हि नागलोको वै योजनानि सहस्रशः।
न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव॥ 14-58-32(94103)
उदङ्क उवाच। 14-58-33x(7906)
नागलोके यदि ब्रह्मन्न शक्ये कुण्डले मया।
प्राप्तुं प्राणान्विमोक्ष्यामि पश्यतस्ते द्विजोत्तम॥ 14-58-33(94104)
वैशम्पायन उवाच। 14-58-34x(7907)
यदा स नाशकत्तस्य निश्चयं कर्तुमन्यथा।
वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युयोज ह॥ 14-58-34(94105)
ततो वज्रप्रहारैस्तैर्दार्यमाणा वसुन्धर।
नागलोकस्य पन्थानमकरोज्जनमेजय॥ 14-58-35(94106)
स तेन मार्गेण तदा नागलोकं विवेश ह।
ददर्श नागलोकं च योजनानि सहस्रशः॥ 14-58-36(94107)
प्रकारनिचयैर्दिव्यैर्मणिमुक्तास्वलङ्कृतैः।
उपपन्नं महाभाग शातकुम्भमयैस्तथा॥ 14-58-37(94108)
वापीः स्फटिकसोपाना नदीस्च विमलोदकाः।
ददर्श वृक्षांश्च बहून्नानाद्विजगणायुतान्॥ 14-58-38(94109)
तस्य लोकस्य च द्वारं स ददर्श भृगूद्वहः।
पञ्चयोजनविस्तारमायतं शतयोजनम्॥ 14-58-39(94110)
नागलोकमुदङ्कस्तु प्रेक्ष्य दीनोऽभवत्तदा।
निराशश्चाभवत्तत्र कुण्डलाहरणे पुनः॥ 14-58-40(94111)
तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः।
ताम्रास्यनेत्रः कौरव्यः प्रज्वलन्निव तेजसा॥ 14-58-41(94112)
धमस्वापानमेतन्मे ततस्त्वं विप्र लप्स्यसे।
ऐरावतसुतेनेहि तव्रानीते हि कुण्डले॥ 14-58-42(94113)
मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथञ्चन॥
त्वयैतद्धि समाचीर्णं गौतमस्याश्रमे तदा॥ 14-58-43(94114)
उदङ्ग उवाच। 14-58-44x(7908)
कथं भवन्तं जानीयामुपाध्यायाश्रमं प्रति।
यन्मया चीर्णपूर्वं हि श्रोतुमिच्छामि तद्ध्यहम्॥ 14-58-44(94115)
अश्व उवाच। 14-58-45x(7909)
गुरोर्गुरु मां जानीहि ज्वलन्तं जातवेदसम्।
त्वया ह्यहं सदा विप्र गुरोरर्थेऽभिपूजितः॥ 14-58-45(94116)
विधिवत्सततं विप्र शुचिना भृगुनन्दन।
तस्माच्छ्रेयो विधास्यामि तवैवं कुरु माचिरम्॥ 14-58-46(94117)
इत्युक्तस्तु तथाऽकार्षीदुदङ्कश्चित्रभानुना।
ताम्रार्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षया॥ 14-58-47(94118)
ततोऽस्य रोमकूपेभ्यो ध्मायमानस्य भारत।
घनः प्रादुरभूद्धूमो नागलोकभयावहः॥ 14-58-48(94119)
तेन धूमेन महता वर्धमानेन भारत।
नागलोके महाराज न प्राज्ञायत किञ्चन॥ 14-58-49(94120)
हाहाकृतमभूत्सर्वमैरावतिनिवेशनम्।
वासुकिप्रमुखानां च नागानां जनमेजय॥ 14-58-50(94121)
न प्राकाशन्त वेश्मानि धूमरुद्धानि भारत।
नीहारसंवृतानीव वनानि गिरयस्तथा॥ 14-58-51(94122)
ते धूमरक्तनयना वह्नितेजोभितापिताः।
आजग्मुर्निश्चयं ज्ञातुं भार्गवस्य महात्मनः॥ 14-58-52(94123)
श्रुत्वा च निश्चयं तस्य महर्षेरतितेजसः।
सम्भ्रान्तनयनाः सर्वे पूजां चक्रुर्यथाविधि॥ 14-58-53(94124)
सर्वे प्राञ्जलयो नागा वृद्धबालपुरोगमाः।
शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति॥ 14-58-54(94125)
प्रसाद्य ब्राह्मणं ते तु पाद्यमर्घ्यं निवेद्य च।
प्रायच्छन्कुण्डले दिव्ये पन्नगाः परमार्चिते॥ 14-58-55(94126)
ततः स पूजितो नागैस्तदोदङ्कः प्रतापवान्।
अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसद्म तत्॥ 14-58-56(94127)
स गत्वा त्वरितो राजन्गौतमस्य निवेशनम्।
प्रायच्छत्कुण्डले दिव्ये गुरुपत्न्यास्तदाऽनघ॥ 14-58-57(94128)
वासुकिप्रमुकानां च नागानां जनमेजय।
सर्वं शशंस गुरेव यथावद्द्विजसत्तमः॥ 14-58-58(94129)
एवं महात्मना तेन त्रींलोकाञ्जनमेजय।
परिक्रम्याहृते दिव्ये ततस्ते मणिकुण्डले॥ 14-58-59(94130)
एवंप्रभावः स मुनिरुदङ्को भरतर्षभ।
परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि। ॥ 14-58-60(94131)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टपञ्चासोऽध्यायः॥ 58 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-58-1 मित्रसहः सौदासः अभिज्ञानं श्लोकरूपं ज्ञापकम्। 7-58-2 एषा रक्षोयोनिरूपा। अन्या इतो मुक्तिरूपा॥ 7-58-10 ततोदंकाय वै प्रादात्तस्मै ते मणिकुण्डले इति क.ट.थ.पाठः॥ 7-58-12 निवृत्तिस्मि परं तपेति झ.पाठः॥ 7-58-16 प्राप्तवान्सङ्गतिं मित्रं धर्मनैपुण्यदर्शनादिति क.ट.थ.पाठः॥ 7-58-16 तत्रैव तु प्रवक्ष्यामि श्रेयो भृगुकुलोद्वहेति क.ट.थ.पाठः॥ 7-58-26 आस्येन कुण्डले विदश्य धृत्वा वल्मीकं विवेशेति सम्बन्धः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|